Thursday, October 15, 2009

जयत्विष्टिकापुरी

जयतु जयतु अस्माकं धरणी, जयत्विष्टिकापुर्याः धरणी।

गंगा-यमुना नद्योर्मध्ये, श्रेष्ठा चेयमुर्वरा धरणी।
जयतु जयतु अस्माकं धरणी, जयत्विष्टिकापुर्याः धरणी।।

घारं पारं करक पचारम, इति नामसु विभक्ता धरणी।
जयतु जयतु अस्माकं धरणी, जयत्विष्टिकापुर्याः धरणी। ।

गंग-देव-शिशु-पंगु कवीनाम काव्यै सतत गुन्जिता धरणी।
जयतु जयतु अस्माकं धरणी, जयत्विष्टिकापुर्याः धरणी। ।

राज्ये- राष्ट्रे - विश्व गोलके संशोभितालंकरिता धरणी।
जयतु जयतु अस्माकं धरणी, जयत्विष्टिकापुर्याः धरणी। ।

-देवेशाचार्य

No comments:

Post a Comment